|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.100. अध्यायः 100
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति युद्धकरणप्रकारादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-100-0x(5601)(68669)
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ।
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह॥ 12-100-1(68670)
भीष्म उवाच। 12-100-2x(5602)
सन्त्येव हि स्थिता धर्म उपपत्त्या तथा परे।
साध्वाचारतया केचित्तथैवौपयिकादपि॥ 12-100-2(68671)
उपायधर्मान्वक्ष्यामि संसिद्धानर्थसिद्धये।
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः॥ 12-100-3(68672)
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्।
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे॥ 12-100-4(68673)
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत।
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्॥ 12-100-5(68674)
अमित्रा एव राजानं भेदेनोपचरन्त्युत।
तां राजा विकृतिं जानन्यथाऽमित्रान्प्रबाधते॥ 12-100-6(68675)
गजानां पार्थ वर्माणि गोवृषाजगराणि च।
शल्यकण्टकलोहानि तनुत्राणि मतानि च॥ 12-100-7(68676)
शातपीतानि शस्त्राणि सन्नाहाः पीतलोहकाः।
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ह॥ 12-100-8(68677)
ऋष्टयस्तोमराः खङ्गा निशिताश्च परश्वथाः।
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः॥ 12-100-9(68678)
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः।
चैत्रे वा मार्गशीर्षे वा सेनायोगः प्रशस्यते॥ 12-100-10(68679)
पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा।
नैवातिशीतो नात्युष्णः कालो भवति भारत॥ 12-100-11(68680)
तस्मात्तदा योजयेत परेषां व्यसनेऽथवा।
एते हि योगाः सेनायाः प्रशस्ताः परबाधने॥ 12-100-12(68681)
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते।
चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः॥ 12-100-13(68682)
न ह्यरण्यानि शक्यन्ते गन्तुं मृगगणैरिव।
तस्मात्सेनासु तानेव योजयन्ति जयार्थिनः॥ 12-100-14(68683)
[अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम्।]
आवासस्तोयवान्मार्गः पर्याकाशः प्रशस्यते॥ 12-100-15(68684)
पोषामपसर्पाणां प्रतिघातस्तथा भवेत्।
आकाशं हि वनाभ्याशे मन्यन्ते गुणवत्तरम्॥ 12-100-16(68685)
बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः।
[उपन्यासो भवेत्तत्र बलानां नातिदूरतः॥] 12-100-17(68686)
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम्।
हतशत्रुप्रतीघातमापदर्थं परायणम्॥ 12-100-18(68687)
सप्तर्पीन्पृष्ठतः कृत्वा युध्येयुरचला इव।
अनेन विधिना शत्रूञ्जिगीषेतापि दुर्जयान्॥ 12-100-19(68688)
यतो वायुर्यतः सूर्यो यतः सोमस्ततो जयः।
पूर्वंपूर्वं ज्याय एषां सन्निपाते युधिष्ठिर॥ 12-100-20(68689)
अकर्द -मनुदकाममर्यादामलोष्टकाम्।
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः॥ 12-100-21(68690)
समा निरुदकाकाशा रथभूमिः प्रशस्यते।
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्॥ 12-100-22(68691)
बहुदुर्गा महाकक्षा वेणुवेत्रतिरस्कृता।
पदातीनां क्षमा भूमिः पर्वतोपवनानि च॥ 12-100-23(68692)
पदातिबहुला सेना दृढा भवति भारत।
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते॥ 12-100-24(68693)
पदातिनागबहुला प्रावृट्काले प्रशस्यते।
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत्॥ 12-100-25(68694)
एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः।
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्॥ 12-100-26(68695)
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत्।
मोक्षे प्रयाणे चलने पानभोजनकालयोः।
अतिक्षिप्तान्व्यतिक्षिप्तान्निहतान्प्रतनूकृतान्॥ 12-100-27(68696)
अविस्रब्धान्कृतारम्भानुपन्यासात्प्रतापितान्।
बहिश्वरानुपन्यासान्कृतवेश्मानुसारिणः॥ 12-100-28(68697)
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः।
परिचर्यापरोद्धारो ये च केचन वल्गिनः॥ 12-100-29(68698)
अनीकं ये विभिदन्ति भिन्नं संस्थापयन्ति च।
समानाशनपानास्ते कार्या द्विगुणवेतनाः॥ 12-100-30(68699)
`जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम्।
समानदेहरक्षार्थे कार्या द्विगुणवेतनाः।
त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत्॥' 12-100-31(68700)
दशाधिपतयः कार्याः शताधिपतयस्तथा।
ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्॥ 12-100-32(68701)
यथा मुख्यान्सन्निपात्य वक्तव्याः संशयामहे।
यथा जयार्थं संग्रामे न जह्याम परस्परम्॥ 12-100-33(68702)
इहैव ते निवर्तन्तां ये च केचन भीरवः।
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति॥ 12-100-34(68703)
[न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः॥]
आत्मानं च स्वपक्षं च पालयन्हन्ति संयुगे॥ 12-100-35(68704)
अर्थनाशो वधोऽकीर्तिरयशश्च पलायने।
अमनोज्ञाऽसुखा वाचः पुरुषस्य पलायतः॥ 12-100-36(68705)
प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च।
`हित्वा पलायमानस्य सहायान्प्राणसंशये।'
अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा॥ 12-100-37(68706)
मनुष्यापसदा ह्येते ये भवन्ति पराङ्भुखाः।
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह॥ 12-100-38(68707)
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्।
जयिनस्तु नरास्तात मङ्गलैर्वन्दनेन च॥ 12-100-39(68708)
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः।
तदसह्यतरं दुःखं मन्यन्ते मरणादपि॥ 12-100-40(68709)
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च।
या भीरूणां पराख्यातिः शूरस्तामधिगच्छति॥ 12-100-41(68710)
ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः।
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम्॥ 12-100-42(68711)
एवं संशप्तशपथाः समभित्यक्तजीविताः।
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः॥ 12-100-43(68712)
अग्रतः पुरुषाऽनीकमसिचर्मवतां भवेत्।
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा॥ 12-100-44(68713)
परेषां प्रतिघातार्थं पदातीनां च गूहनम्।
अपि तस्मिन्पुरे वृद्धा भवेयुर्ये पुरोगमाः॥ 12-100-45(68714)
ये पुरस्तादभिमताः सत्ववन्तो मनस्विनः।
ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः॥ 12-100-46(68715)
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः।
स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः॥ 12-100-47(68716)
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्।
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह॥ 12-100-48(68717)
संप्रयुक्ते निकृष्टे वा सत्यं वा यदि वाऽनृतम्।
प्रगृह्य बाहून्क्रोशेत हन्त भग्नाः परे इति॥ 12-100-49(68718)
आगतं मे मित्रबलं प्रहरध्वमभीतवत्।
सत्ववन्तो निधावेयुः कुर्वन्तो भैरवान्रवान्॥ 12-100-50(68719)
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः।
भेरीमृदङ्गपणवान्नादयेयुश्च जर्झरान्॥ ॥ 12-100-51(68720)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि शततमोऽध्यायः॥ 100॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-100-4 नैगमं वेदोक्तमुपायम्॥ 12-100-5 वक्रां वक्रयैव नाशयेत्॥ 12-100-6 अमित्रानिव तां निकृतिं प्रबाधते बाधेत॥ 12-100-7 गजानां वर्माणि वाणघातत्राणानि। गवादीनां शल्यादीनि॥ 12-100-21 अमर्यादां सेतुप्राकारादिहीनाम्॥ 12-100-24 सुदिनेषु वृष्टिवर्जितदिनेषु॥ 12-100-25 प्रसंख्याय सम्यग्विचार्य॥ 12-100-26 तिथौ नक्षत्रे च पूजित आशीर्भिर्योजितः॥ 12-100-28 उपन्यासात्सुरुङ्गादिगुप्तोपायात्। बहिस्तृणाद्यर्थं चरतो बहिश्चरानल्पान्। उपन्यासान् तृणाह्याहर्तॄन्॥ 12-100-29 तान्नाभिघातयेदिति प्रपूर्वेण संबन्धः॥ 12-100-30 अनीकं परकीयम्॥ 12-100-33 सन्निपात्यैकीकृत्य॥ 12-100-35 प्रदरं भङ्गम्। वधं वा स्वीयानाम्॥ 12-100-37 नोऽस्मत्संबन्धिनां द्विषतां पुरुषस्य द्रव्यनाशादिकमस्त्विति पूर्वेण सह द्वयोः संबन्धः॥ 12-100-38 राशिर्योधसंख्याशरीरं वा तस्य वर्धनाः। वृथाजन्मान इत्यर्थः॥ 12-100-39 पलायिनं जयिनः प्रत्युद्यान्ति यत्तदसह्यतरमित्यपकृष्यते॥ 12-100-44 पुरुषा पुरुषाणाम्। विभक्तिलोप आर्षः॥ 12-100-47 स्कन्धः समूहः। समूहमात्रार्थं वा तिष्ठेयुः॥ 12-100-48 संहतानन्योन्यं श्लिष्टान् स्वान्परैः सह योधयेत्सेनापतिः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|